30 मई 2016

स्वर - वर्ण ज्ञान

( अ )
श्रृणु तत्वमकारस्य अतिगोप्यं वरानने । शरच्चन्द्रप्रतीकाशं पञ्चकोणमयं सदा । 
पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम । निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्तिमान । 
बिन्दुतत्वमयंवर्णं स्वयं प्रकृतिरुपिणी ।

( आ )
आकारं परमाश्चर्यं शङ्खज्योतिर्मयं प्रिये । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ।
पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली ।

( इ )  
इकारं परमानन्दसुगन्धकुसुमच्छविम । हरिब्रह्ममयं वर्णं सदा रुद्रयुतं प्रिये । 
सदाशक्तिमयं देवि गुरुब्रह्ममयं तथा ।
-------
सदाशिवमयं वर्णं परं ब्रह्मसमन्वितम । हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम । 
इकारं परमेशानि स्वयं कुण्डली मूर्तिमान ।

( इ )
ईकारं परमेशानि स्वयं परमकुण्डली । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा ।
पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम । चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा ।

( उ )
उकारं परमेशानि अधःकुण्डलिनी स्वयम । पीतचम्पकसंकाशं पञ्चदेवमयं सदा । 
पञ्चप्राण मयं देवि चतुर्वर्गप्रदायकम ।

( ऊ )
शङ्खकुन्दसमाकारं ऊकारं परमकुण्डली । पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।
धर्मार्थकाममोक्षं च सदासुखप्रदायकम ।

( ऋ )
ऋकारं परमेशानि कुण्डली मूर्तिमान स्वयम । अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने । 
सदाशिवंयुतं वर्णं सदा ईश्वरसंयुतम । पञ्चप्राणमयं वर्णं चतुर्ज्ञानमयं तथा । 
रक्तविद्युतल्लताकारं ऋकारं प्रणमाम्यहम ।

( ॠ )
ॠकारंपरमेशानि स्वयं परमकुण्डलम । पीतविद्युतल्लताकारं पञ्चदेवमयं सदा ।
चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा । त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये ।

( लृ )
लृकारं चञ्चलापाङ्गि कुण्डली परदेवता । अत्र ब्रह्मादयः सर्वे तिष्ठन्ति ससतं प्रिये । 
पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा । पञ्चप्राणयुतं वर्ण तथा गुणत्रयात्मकम । 
विन्दुत्रयात्मकं वर्णं पीतविद्युल्लता तथा ।

( ए )
एकारं परमेशानि ब्रह्मविष्णुशिवात्मकम । रञ्जनीकुसुमप्रख्यं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्ण तथा बिन्दुत्रयात्मकम । चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली ।

( ऐ )
ऐकारंपरमंदिव्यं महाकुण्डलिनी स्वयम । कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा । 
ब्रह्मविष्णुमयं वर्णं बिन्दुत्रयसमन्वितम ।

( ओ )
ओकारं चञ्चलापाङ्गि पञ्चदेवमयं सदा । रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरीम ।
पञ्चप्राणमयं वर्णं नमामि देवमातरम । एतद्वर्णं महेशानि स्वयं परमकुण्डली ।

( औ )
रक्तविद्युल्लताकारं औकारं कुण्डली स्वयम । 
अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये । 
पञ्चप्राणमयं वर्णं तथा शिवमयं सदा ।

( अं )
सदा ईश्वरसंयुक्तं चतुर्वर्गप्रदायकम ।
अङ्कारं विन्दुसंयुक्तं पीतविद्युतसमप्रभम ।
पञ्चप्राणमयं वर्णं ब्रह्मादिदेवतामयम ।

( अः )
सर्वज्ञानमयं वर्णं बिन्दुत्रयसमन्वितम । अःकारं परमेशानि विसर्गसहितं  सदा ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयः सदा । सर्वज्ञानमयोवर्णः आत्मादि तत्वसंयुतः ।

( क )
जपायावकसिन्दूरमदृशीं कामिनीं पराम । चतुर्भुजां त्रिनेत्रां च बाहुबल्लीविराजिताम । कदम्बकोरकाकारस्तनद्वयविभूषितम । रत्नकंकणकेयूरैरङ्गदैरुपशोभिताम ।
रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम । एवं हि कामिनीं व्यात्वा ककारं दशधा जपेत ।

( ख )
खकारं परमेशानि कुण्डलीत्रयसंयुतम । खकारं परमाश्चर्यं शङ्खकुन्दसमप्रभम । 
कोणत्रययुतं रम्यं बिन्दुत्रयसमन्वितम । गुणत्रययुतं देवि पञ्चदेवमयं सदा । 
त्रिशक्तिसंयुतं वर्णं सर्व शक्त्यात्मकं प्रिये ।

( ग )
गकारं परमेशानि पञ्चदेवात्मकं सदा । निर्गुणं त्रिगुणोपेतं निरीहं निर्मलं सदा ।
पञ्चप्राणमयं वर्णं गकारं प्रणमाम्यहम ।

( घ )
अरुणादित्यसङ्काशं कुण्डलीं प्रणमाम्यहम । घकारं चञ्चलापाङ्गि चतुष्कोणात्मकं सदा । पञ्चदेवमयं वर्णं तरुणादित्यसन्निभम । निर्गुणं त्रिगुणोपेतं सदा त्रिगुणसंयुतम । 
सर्वगं सर्वदं शान्तं घकारं प्रणमाम्यहम ।

( ङ )
ङकारं परमेशानि स्वयं परमकुण्डली । सर्वदेवमयं वर्णं त्रिगुणं लोललोचने ।
पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम ।

( च )
चवर्णं श्रृणु सुश्रोणि चतुर्वर्गप्रदायकम । कुण्डलीसहितं देवि स्वयं परमकुण्डली । 
रक्त विद्युतल्लताकारं सदा त्रिगुणसंयुतम । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । 
त्रिशक्ति सहितं वर्णं त्रिबिन्दुसहितं सदा ।

( छ )
छकारं परमाश्चर्यं स्वयं परमकुण्डली । सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं सदा ईश्वरसंयुतम ।
पीतविद्युल्लताकारं छकारं प्रणमाम्यहम ।

( ज )
जकारं परमेशानि या स्वयं मध्य कुण्डली । शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम । 
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिशक्ति सहितं वर्णं त्रिबिन्दुसहितं प्रिये ।

( झ )
झकारं परमेशानि कुण्डलीमोक्षरुपिणी । रक्तविद्युल्लताकारं सदा त्रिगुणसंयुतम ।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकमं सदा । त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ।

( ञ )
सदा ईश्वरसंयुक्तं ञकारं श्रृणु पार्वति । रक्तविद्युल्लताकारं स्वयं परमकुण्डली । 
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकमं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।

( ट )
टकारं चञ्चलापाङ्गि स्वयं परमकुण्डली । पञ्चदेवमयं वर्णं पञ्च प्राणात्मकमं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।

( ठ )
ठकारं चञ्चलापाङ्गि कुण्डली मोक्षरुपिणी । पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम । 
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा । त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ।

( ड )
डकारं चञ्चलापाङ्गि सदा त्रिगुणसंयुतम । पञ्चदेवमयं वर्णं पञ्चप्राणमयं तथा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । चतुर्ज्ञानमयं वर्णमात्मादितत्वसंयुतम ।  पीतविद्युल्लताकारं डकारं प्रणमाम्यहम ।

( ढ )
ढकारं परमाराध्यं या स्वयं कुण्डली परा । पञ्चदेवात्मकं वर्णं पञ्चप्राणमयंसदा । सदात्रिगुणसंयुक्तंआत्मादितत्वसंयुतम । रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम ।

( ण )
णकारं परमेशानि या स्वयं परमकुण्डली । पीतविद्युल्लताकारं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं देवि सदा त्रिगुणसंयुतम । आत्मादितत्वसंयुक्तं महासौख्यप्रदायकम ।

( त )
तकारं चञ्चलापाङ्गि स्वयं परमकुण्डली । पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं तथा । 
त्रिशक्ति सहितं वर्णमात्मादितत्वसंयुतम । त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम ।

( थ )
थकारं चञ्चलापाङ्गि कुण्डली मोक्षरुपिणी । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये । तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम ।

( द )
दकारं श्रृणु चार्वङ्गि चतुर्वर्गप्रदायकम् । पञ्चदेवमयं वर्णं त्रिशक्तिसहितं सदा । 
सदा ईश्वरसंयुक्तं त्रिबिन्दुसहितं सदा । आत्मादितत्वसंयुक्तं स्वयं परमकुण्डली । 
रक्तविद्युल्लताकारं दकारं हृदि भावय ।

( ध )
धकारं परमेशानि कुण्डली मोक्षरुपिणी । आत्मादितत्वसंयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं देवि त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं धकारं हृदि भावय ।
पीतविद्युल्लताकारं चतुर्वर्गप्रदायकम ।

( न )
नकारं श्रृणु चार्वङ्गि रक्तविद्युल्लताकृतिम । पञ्चदेवमयं वर्णं स्वयं परमकुण्डली । 
पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा । त्रिशक्तिसहितं वर्णमात्मादितत्वसंयुतम । 
चतुर्वर्गप्रदं वर्णं हृदि भावय पार्वति । 

( प )
अतः परं प्रवक्ष्यामि पकारं मोक्षमव्ययम् । चतुर्वर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम ।
पञ्चदेवमयं वर्णं स्वयं परमकुण्डली । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ।
त्रिबिन्दुसहितं वर्णंमात्मादितत्वसंयुतम । महामोक्षप्रदं वर्णंहृदि भावय पार्वति ।

( फ )
फकारं श्रृणु चार्वङ्गि रक्तविद्युल्लतोपमम । चतुर्वर्गमयं वर्णं  पञ्चदेवमयं सदा । 
पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम । आत्मादितत्वसंयुक्तं त्रिबिन्दुसहितं सदा ।

( ब )
बकारं श्रृणु चार्वङ्गि चतुर्वर्गप्रदायकम । शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा । त्रिशक्तिसहितं वर्णं निविडाऽमृतनिर्मलम ।
स्वयं कुण्डलिनी साक्षात सततं प्रणमाम्यहम ।

( भ )
भकारं चञ्चलापाङ्गि स्वयं परमकुण्डली । महामोक्षप्रदं वर्णं पञ्चदेवमयं सदा । 
त्रिशक्ति सहितं वर्णं त्रिबिन्दुसहितं प्रिये ।

( म )
मकारं श्रृणु चार्वङ्गि स्वयं परमकुण्डली । महामोक्षप्रदं वर्णं पञ्चदेवमयं सदा ।
तरुणादित्यसङ्काशं चतुर्वर्गप्रदायकम । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
आत्मादितत्वसंयुक्तं हृदिस्थं प्रणमाम्यहम ।

( य ) 
यकारं श्रृणु चार्वङ्गि चतुष्कोमयं सदा । पलालधूमसङ्काशं स्वयं परमकुण्डली । 
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं तथा । 
प्रणमामि सदा वर्णं मूर्तिमान मोक्षमव्ययम ।

( र )
रकारं चञ्चलापाङ्गि कुण्डलीद्वयसंयुतम । रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा ।
पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा । त्रिशक्तिसहितं देवि आत्मादितत्वसंयुतम ।

( ल )
लकारं चञ्चलापाङ्गि कुण्डलीद्वयसंयुतम । पीतविद्युल्लताकारं सर्वरत्नप्रदायकम ।  
पञ्चदेवमयं वर्णं पञ्चप्राणमं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । 
आत्मादितत्वसंयुक्तं हृदि भावय पार्वति ।

( व )
वकारं चञ्चलापाङ्गि कुण्डलीमोक्षमव्ययम । पलालधूमसंकाशं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णमात्मादितत्वसंयुतम ।

( श )
शकारं चञ्चलापाङ्गि कुण्डलीतत्वसंयुतम । पीतविद्युल्लताकारं सर्वरत्नप्रदायकम । 
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । 
आत्मादितत्वसंयुक्तं हृदि भावय पार्वति ।

( ष )
षकारं श्रृणुचार्वङ्गि अष्टकोणमयं सदा । रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ।
चतुर्वर्गप्रदं वर्णं सुधानिर्मितविग्रहम । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
रजःसत्त्वतमोयुक्तं त्रिशक्ति सहितं सदा । त्रिबिन्दुसहितं वर्णमात्मादितत्वसंयुतम ।
सर्वदेवमयं वर्णं हृदि भावय पार्वति ।

( स )
सकारं श्रृणु चार्वङ्गि शक्तिबीजं परात्परम । कोटिविद्युल्लताकारं कुण्डलीत्रयसंयुतम । 
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । रजःसत्वतमोयुक्तं त्रिबिन्दुसहितं सदा । 
प्रणम्य सततं देवि हृदि भावय पार्वति ।

( ह )
हकारं श्रृणु चार्वङ्गि चतुर्वर्गप्रदायकम । कुण्डलीत्रयसंयुक्तं रक्तविद्युल्लतोपमम ।
रजःसत्वतमोवायु पञ्चदेवमयं सदा । पञ्चप्राणमयं वर्णं हृदि भावय पार्वति ।

( क्ष )
क्षकारं श्रृणु चार्वङ्गि कुण्डलीत्रयसंयुतम । चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा । 
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णांत्मादितत्वसंयुतम । 
रक्तचन्द्रप्रतीकाशं हृदि भावय पार्वति ।

कोई टिप्पणी नहीं:

मेरे बारे में

मेरी फ़ोटो
सत्यसाहिब जी सहजसमाधि, राजयोग की प्रतिष्ठित संस्था सहज समाधि आश्रम बसेरा कालोनी, छटीकरा, वृन्दावन (उ. प्र) वाटस एप्प 82185 31326